दशमयी बाला सङ्कटनाशिनी स्तोत्र

दशमहाविद्या की समष्टि रूपिणी भगवती बाला, जो ऊर्ध्वाम्नाय की नायिका है, के इस स्तोत्र का पाठ करने से समस्त संकटों का निवारण होता है। यह स्तोत्र मेरु-तन्त्र से उद्धृत है।
दशमयी बाला सङ्कटनाशिनी स्तोत्र 

श्रीकाली बगलामुखी च ललिता धूम्रावती भैरवी
मातङ्गी भुवनेश्वरी च कमला श्रीवज्रवैरोचनी।  
तारापूर्वमहापदेन कथिता विद्या स्वयं शम्भुना 
लीला रूपमयी च देशदशधा बाला तु मां पातु सा॥१॥
श्यामां श्यामघनावभासरुचिरां नीलालकालङ्कृतां 
बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम्। 
त्रासत्राणकृपाणमुण्डदधतीं भक्ताय दानोद्यतां 
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं कालिकाम्॥२॥
ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां
हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम्।
पीतां भूषणगन्धमाल्यरुचिरां पीताम्बराङ्गां वरां 
वन्दे सङ्कटनाशिनीं भगवतीं बालां च बगलामुखीम्॥३॥
बालार्कश्रुतिभास्करां त्रिनयनां मन्दस्मितां सन्मुखीं 
वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे। 
पारावारविहारिणीं परमयीं पद्मासने संस्थितां 
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं षोडशीम्॥४॥
दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां 
क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम्। 
देवीं सूर्पकरां मलीनवसनां तां पिप्लादार्चितां  
बालां सङ्कटनाशिनीं भगवतीं ध्यायामि धूमावतीम्॥५॥
उद्यत् कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां 
मालापुस्तकपाशमंकुशवरां दैत्येन्द्रमुण्डस्रजाम्। 
पीनोतुङ्गपयोधरां त्रिनयनां ब्रह्मादिभिः संस्तुतां 
बालां सङ्कटनाशिनीं भगवतीं श्रीभैरवीं धीमहि॥६॥
वीणावादनतत्परां त्रिनयनां मन्दस्मितां सन्मुखीं 
वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे। 
पारावारविहारिणीं परमयीं ब्रह्मासने संस्थितां 
वन्दे सङ्कटनाशिनीं भगवतीं मातङ्गिनीं बालिकाम्॥७॥
उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां 
हस्ते चारुवराभयं च दधतीं पाशं तथा चाङ्कुशम्। 
चित्रालङ्कृतमस्तकां त्रिनयनां ब्रह्मादिभिः सेवितां 
वन्दे सङ्कटनाशिनीं च भुवनेशीमादिबालां भजे॥८॥
देवीं काञ्चनसन्निभां त्रिनयनां फुल्लारविन्दस्थितां
विभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलाम्।  
प्रालेयाचलसन्निभैश्च करिभिरासिञ्च्यमानां सदा  
बालां सङ्कटनाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम्॥९॥ 
सच्छिन्नां स्वशिरोविकीर्णकुटिलां वामे करे विभ्रतीं 
तृप्तास्य स्वशरीरजैश्च रुधिरैः सन्तर्पयन्तीं सखीम्।
सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं  
बालां सङ्कटनाशिनीं भगवतीं श्रीछिन्नमस्तां भजे॥१०॥ 
उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां 
कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम्। 
कण्ठे मुण्डस्रजां करालवदनां कञ्जासने संस्थितां 
वन्दे सङ्कटनाशिनीं भगवतीं बालां स्वयं तारिणीम्॥११॥
मुखे श्रीमातङ्गी तदनु किल तारा च नयने
तदन्तर्गा काली भृकुटि सदने भैरवी परा।  
कटौ छिन्ना धूमावती जय कुचेन्दी कमलजा 
पदांशे ब्रह्मास्त्रा जयति किल बाला दशमयी॥१२॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी 
परित्रासत्राणस्फटिकगुटिकापुस्तकवरा। 
गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा 
सदा पीता हाला जयति किल बाला दशमयी॥१३॥

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!