श्री भैरव पञ्जर तन्त्रोक्त कवचम्

श्री भैरव पञ्जर तन्त्रोक्त कवचम्

|| पूर्व-पीठिका ||

पार्वत्युवाच

देव देव महादेव संसार प्रियकारक | पञ्जरं बटुकस्यास्य कथनीयं मम प्रभो ||

श्री शिव उवाच

पूर्वं भस्मासुरत्रासाद् भय विह्वलतां स्वयम् | पठनादेव मे प्राणा रक्षितः परमेश्वरि ||

सर्वदुष्ट विनाशाय सर्वरोग निवारणम् | दुःखशान्तिकरं देवि ह्यल्पमृत्युभयापहम् ||

राज्ञां वश्यकरं चैव त्रैलोक्य विजयप्रदम् | सर्वलोकेषु पूज्यश्च लक्ष्मीस्तस्य गृहे स्थिरा ||

अनुष्ठानं कृतं देवि पूजनं च दिने दिने | बिना पञ्जरपाठेन तत्सर्वं निष्फलं भवेत् ||

विनियोग : अस्य श्री बटुक भैरव पञ्जर कवचस्य कालाग्नि रुद्रः ऋषिः अनुष्टुप् छन्दः ॐ बटुक भैरवो देवता ह्रां बीजं ॐ भैरवी-वल्लभा शक्तिः ॐ दण्डपाणये नमः कीलकम् मम सकल कामना सिद्धयर्थे जपे विनियोगः |

ऋष्यादिन्यास : कालाग्नि रुद्रः ऋषये नमः शिरसी | अनुष्टुप् छन्दसे नमः मुखे | ॐ बटुक भैरवो देवतायै नमः हृदि | ह्रां बीजाय नमः गुह्ये | ॐ भैरवी-वल्लभा शक्तये नमः पादयोः | ॐ दण्डपाणये नमः कीलकाय नमः नाभौ | मम सकल कामना सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे |

ॐ ह्रां प्राच्यां डमरुहस्तो रक्तवर्णो महाबलः | प्रत्यक्षमहमीशान बटुकाय नमोनमः ||

ॐ ह्रीं दण्डधारी दक्षिणे च पश्चिमे खड्गधारिणे | ॐ ह्रूं घटावादी मूर्तिरुत्तरस्यां दिशिस्था ||

ॐ ह्रैं अग्निरूपो ह्याग्नेय्यां नैर्ऋत्यां च दिगम्बरः | ॐ ह्रौं सर्वभूतस्थो वायव्ये भूतानां हितकारकः||

ॐ ह्रश्चवाष्टसिद्धिश्च ईशाने सर्वसिद्धिकरः परः | प्रत्यक्षमहमीशान बटुकाय नमोनमः ||

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः स्वाहा ऊर्ध्वं खेचरिणं न्यसेत् | रुद्ररूपस्तु पाताले बटुकाय नमोनमः ||

ॐ ह्रीं बटुकाय मूर्ध्नि ललाटे भीमरूपिणम् | आपदुद्धरणं नेत्रे मुखे च बटुकं न्यसेत् ||

कुरु कुरु सर्वसिद्धिर्देहे गेहे व्यवस्थितः | बटुकाय ह्रीं सर्वदेहे विश्वस्य सर्वतो दिशि ||

आपदुद्धारकः पातु ह्यापादतलमस्तकम् | हसक्षमलवरयुं पातु पूर्वे दण्डहस्तस्तु दक्षिणे ||

हसक्षमलवरयुं नैर्ऋत्ये हसक्षमलवरयुं पश्चिमेऽवतु | सर्वभूतस्थो वायव्ये हसक्षमलवरयुं घटावादिनउत्तरे ||

हंसः सोहं तु ईशाने चाष्टसिद्धिकरः परः | शं क्षेत्रपाल ऊर्ध्वे तु पाताले शिव सन्निभः ||

एवं दशदिशौ रक्षेद् बटुकाय नमोनमः | इति ते कथितं ह्रीं श्रीं क्लीं ऐं सदाऽवतु ||

ॐ फ्रें हुं फट् च सर्वत्र त्रैलोक्ये विजयी भवेत् | लक्ष्मीं ऐं श्रीं लं पृथ्विव्यां च आकारो हं ममावतु ||

स्रौं प्रौं ज्रौं ॐ यं वायव्यां रं रं रं तेजोरूपिणम् | ॐ कं खं गं घं ङं बटुकं चं छं जं झं ञं कपालिनम् ||

टं ठं डं ढं णं क्षेत्रेशं तं थं दं धं नं उमाप्रियम् | पं फं बं भं मं ममरक्ष यं रं लं भैरवोत्तमम् ||

वं शं षं सं आदिनाथं लं क्षं वै क्षेत्रपालकम् | एवं पञ्जरमाख्यातं सर्वसिद्धिकरं भवेत् ||

दुःखदारिद्रय शमनं रक्षकः सर्वतो दिशाः | आवश्यं सर्वतो वक्ष्यं सर्वबीजैश्च सम्पुटम् ||

सर्वरोगहरं दिव्यं सर्वत्र सुखमाप्नुयात् | एवं रहस्यमाख्यातं देवानामपि दुर्लभम् ||

वज्रपञ्जरनामेदं ये शृण्वन्ती वरानने | आयुरारोग्यमैश्वर्यं कीर्तिलाभः सुखं जयः ||

लक्ष्मी मनोरमा बुद्धिस्तेषां गेहे व्यवस्थिता | सुशीलाय सुदान्ताय गुरुभक्तिपराय च ||

तस्य शीघ्रं च दातव्यमन्यथा न कदाचन | गोपनीयं प्रयत्नेन सर्वगोप्यमयं भवेत् ||

यस्मै कस्मै न दातव्यं न दातव्यं कदाचन | राज्यं देयं शिरो देयं न देयं भैरवाक्षरम् ||

एककालं द्विकालं वा त्रिकालं पठते नरः | सर्वपाप विनिर्मुक्तो शिवेन सह मोदते ||

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.

error: Content is protected !!